Sukta 1.31
त्वं नो अग्ने तव देव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्य । त्राता तोकस्य तनये गवामस्यनिमेषं रक्षमाणस्तव व्रते ॥
त्वं नो॑ अग्ने॒ तव॑ देव पा॒युभि॑र्म॒घोनो॑ रक्ष त॒न्व॑श्च वन्द्य । त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा॑म॒स्यनि॑मेषं॒ रक्ष॑माण॒स्तव॑ व्र॒ते ॥
tvaṃ no agne tava deva pāyubhir maghono rakṣa tanvaś ca vandya | trātā tokasya tanaye gavām asy ani-meṣaṃ rakṣamāṇas tava vrate ||
O Agni, with your divine safeguards protect us—the givers of offering—and protect also our embodied being, O adorable one. You are the guardian of our lineage, our growing offspring, and our rays of Light; sleeplessly watching, keep us within your law of working.
त्वम् । नः॒ । अ॒ग्ने॒ । तव॑ । दे॒व॒ । पा॒युऽभिः॑ । म॒घोनः॑ । र॒क्ष॒ । त॒न्वः॑ । च॒ । व॒न्द्य॒ । त्रा॒ता । तो॒कस्य॑ । तन॑ये । गवा॑म् । अ॒सि॒ । अनि॑ऽमेषम् । रक्ष॑माणः । तव॑ । व्र॒ते ॥त्वम् । नः । अग्ने । तव । देव । पायुभिः । मघोनः । रक्ष । तन्वः । च । वन्द्य । त्राता । तोकस्य । तनये । गवाम् । असि । अनिमेषम् । रक्षमाणः । तव । व्रते ॥tvam | naḥ | agne | tava | deva | pāyu-bhiḥ | maghonaḥ | rakṣa | tanvaḥ | ca | vandya | trātā | tokasya | tanaye | gavām | asi | ani-meṣam | rakṣamāṇaḥ | tava | vrate