Sukta 1.3
अश्विना यज्वरीरिषो द्रवत्पाणी शुभस्पती । पुरुभुजा चनस्यतम् ॥
अश्वि॑ना॒ यज्व॑री॒रिषो॒ द्रव॑त्पाणी॒ शुभ॑स्पती । पुरु॑भुजा चन॒स्यत॑म् ॥
aśvínā yajvárīr íṣo drávátpāṇī śúbhaspatī | purúbhujā canasyátam ||
O Ashvins, you who come with swift hands, lords of the luminous delight: accept and foster these offerings of the striving soul; you who are wide in enjoyment, become pleased with us and increase our plenitude of force.
अश्वि॑ना । यज्व॑रीः । इषः॑ । द्रव॑त्पाणी॒ इति॒ द्रव॑त्ऽपाणी । शुभः॑ । प॒ती॒ इति॑ । पुरु॑ऽभुजा । च॒न॒स्यत॑म् ॥अश्विना । यज्वरीः । इषः । द्रवत्पाणी इति द्रवत्पाणी । शुभः । पती इति । पुरुभुजा । चनस्यतम् ॥aśvinā | yajvarīḥ | iṣaḥ | dravatpāṇī itidravat-pāṇī | śubhaḥ | patī iti | puru-bhujā | canasyatam