Sukta 1.28
यत्र ग्रावा पृथुबुध्न ऊर्ध्वो भवति सोतवे । उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥
यत्र॒ ग्रावा॑ पृ॒थुबु॑ध्न ऊ॒र्ध्वो भव॑ति॒ सोत॑वे । उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥
yátra grā́vā pṛthúbudhna ūrdhvó bhávati sótave | ulū́khala-sutānām áved índra jalguláḥ ||
Where the pressing-stone, broad-based, rises upright for the pressing, there the pounding of the mortar-pressers becomes known to Indra—awakening his force in us.
यत्र॑ । ग्रावा॑ । पृ॒थुऽबु॑ध्नः । ऊ॒र्ध्वः । भव॑ति । सोत॑वे । उ॒लूख॑लऽसुतानाम् । अव॑ । इत् । ऊँ॒ इति॑ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥यत्र । ग्रावा । पृथुबुध्नः । ऊर्ध्वः । भवति । सोतवे । उलूखलसुतानाम् । अव । इत् । ऊँ इति । इन्द्र । जल्गुलः ॥yatra | grāvā | pṛthu-budhnaḥ | ūrdhvaḥ | bhavati | sotave | ulūkhala-sutānām | ava | it | oṃ iti | indra | jalgulaḥ