Sukta 1.27
नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः । यजाम देवान्यदि शक्नवाम मा ज्यायसः शंसमा वृक्षि देवाः ॥
नमो॑ म॒हद्भ्यो॒ नमो॑ अर्भ॒केभ्यो॒ नमो॒ युव॑भ्यो॒ नम॑ आशि॒नेभ्य॑: । यजा॑म दे॒वान्यदि॑ श॒क्नवा॑म॒ मा ज्याय॑स॒: शंस॒मा वृ॑क्षि देवाः ॥
námo mahádbhyo námo arbhakébhyo námo yúvabhyo náma āśinébhyaḥ | yájāma devā́n yádi śaknávāma mā́ jyā́yasaḥ śáṃsam ā́ vṛkṣi devāḥ ||
Obeisance to the Great Ones, obeisance to the small; obeisance to the young, obeisance to the full-grown. We would worship the Gods, if we are able—O Gods, do not cut short our chant of aspiration by a might that exceeds us.
नमः॑ । म॒हत्ऽभ्यः॑ । नमः॑ । अ॒र्भ॒केभ्यः॑ । नमः॑ । युव॑भ्यः । नमः॑ । आ॒शि॒नेभ्यः॑ । यजा॑म । दे॒वान् । यदि॑ । श॒क्नवा॑म । मा । ज्याय॑सः॒ । शंस॑म् । आ । वृ॒क्षि॒ । दे॒वाः॒ ॥नमः । महत्भ्यः । नमः । अर्भकेभ्यः । नमः । युवभ्यः । नमः । आशिनेभ्यः । यजाम । देवान् । यदि । शक्नवाम । मा । ज्यायसः । शंसम् । आ । वृक्षि । देवाः ॥namaḥ | mahat-bhyaḥ | namaḥ | arbhakebhyaḥ | namaḥ | yuvabhyaḥ | namaḥ | āśinebhyaḥ | yajāma | devān | yadi | śaknavāma | mā | jyāyasaḥ | śaṃsam | ā | vṛkṣi | devāḥ