Sukta 1.27
स रेवाँ इव विश्पतिर्दैव्यः केतुः शृणोतु नः । उक्थैरग्निर्बृहद्भानुः ॥
स रे॒वाँ इ॑व वि॒श्पति॒र्दैव्य॑: के॒तुः शृ॑णोतु नः । उ॒क्थैर॒ग्निर्बृ॒हद्भा॑नुः ॥
sa revā́m̐ iva viśpátir daívyàḥ ketúḥ śṛṇótu naḥ | ukthaír agnír bṛhád-bhā́nuḥ ||
May Agni, the divine Sign and Lord of the peoples—rich in luminous plenty—hear us through our uplifted hymns; he whose vast radiance widens the being.
सः । रे॒वान्ऽइ॑व । वि॒श्पतिः॑ । दैव्यः॑ । के॒तुः । शृ॒णो॒तु॒ । नः॒ । उ॒क्थैः । अ॒ग्निः । बृ॒हत्ऽभा॑नुः ॥सः । रेवान्इव । विश्पतिः । दैव्यः । केतुः । शृणोतु । नः । उक्थैः । अग्निः । बृहत्भानुः ॥saḥ | revān-iva | viśpatiḥ | daivyaḥ | ketuḥ | śṛṇotu | naḥ | ukthaiḥ | agniḥ | bṛhat-bhānuḥ