Sukta 1.27
अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः । सम्राजन्तमध्वराणाम् ॥
अश्वं॒ न त्वा॒ वार॑वन्तं व॒न्दध्या॑ अ॒ग्निं नमो॑भिः । स॒म्राज॑न्तमध्व॒राणा॑म् ॥
aśváṃ na tvā vā́ravantaṃ vandádhyā agníṃ námobhiḥ | samrā́jantaṃ adhvarā́ṇām ||
As one would cherish a strong steed, so do I revere thee with acts of homage, O Agni rich in the desirable: thou who art the sovereign leader of the journeys of offering, governing the right movement of the sacrifice within us.
अश्व॑म् । न । त्वा॒ । वार॑ऽवन्तम् । व॒न्दध्यै॑ । अ॒ग्निम् । नमो॑भिः । स॒म्ऽराज॑न्तम् । अ॒ध्व॒राणा॑म् ॥अश्वम् । न । त्वा । वारवन्तम् । वन्दध्यै । अग्निम् । नमोभिः । सम्राजन्तम् । अध्वराणाम् ॥aśvam | na | tvā | vāra-vantam | vandadhyai | agnim | namobhiḥ | sam-rājantam | adhvarāṇām