Sukta 1.26
नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः । अग्ने दिवित्मता वचः ॥
नि नो॒ होता॒ वरे॑ण्य॒: सदा॑ यविष्ठ॒ मन्म॑भिः । अग्ने॑ दि॒वित्म॑ता॒ वच॑: ॥
ní no hotā́ váreṇyaḥ sádā yaviṣṭha mánmabhiḥ | ágne divitmátā vácaḥ ||
O Agni, our chosen guide of the offering, ever youthful in thy force—establish in us the word that is luminous with heaven: the inspired utterance that carries the mind upward into the Truth.
नि । नः॒ । होता॑ । वरे॑ण्यः । सदा॑ । य॒वि॒ष्ठ॒ । मन्म॑ऽभिः । अग्ने॑ । दि॒वित्म॑ता । वचः॑ ॥नि । नः । होता । वरेण्यः । सदा । यविष्ठ । मन्मभिः । अग्ने । दिवित्मता । वचः ॥ni | naḥ | hotā | vareṇyaḥ | sadā | yaviṣṭha | manma-bhiḥ | agne | divitmatā | vacaḥ