Sukta 1.25
वेद वातस्य वर्तनिमुरोॠष्वस्य बृहतः । वेदा ये अध्यासते ॥
वेद॒ वात॑स्य वर्त॒निमु॒रोॠ॒ष्वस्य॑ बृह॒तः । वेदा॒ ये अ॒ध्यास॑ते ॥
védā vā́tasya vartánim uró ṛṣvásya bṛhatáḥ | védā yé adhyā́sate ||
He knows the course of the Wind, of the wide, the lofty, the vast; he knows those who are seated above—Varuṇa who comprehends the higher seats of consciousness and the movements of the breath of life.
वेद॑ । वात॑स्य । व॒र्त॒निम् । उ॒रोः । ऋ॒ष्वस्य॑ । बृ॒ह॒तः । वेद॑ । ये । अ॒धि॒ऽआस॑ते ॥वेद । वातस्य । वर्तनिम् । उरोः । ऋष्वस्य । बृहतः । वेद । ये । अधिआसते ॥veda | vātasya | vartanim | uroḥ | ṛṣvasya | bṛhataḥ | veda | ye | adhi-āsate