Sukta 1.25
वेदा यो वीनां पदमन्तरिक्षेण पतताम् । वेद नावः समुद्रियः ॥
वेदा॒ यो वी॒नां प॒दम॒न्तरि॑क्षेण॒ पत॑ताम् । वेद॑ ना॒वः स॑मु॒द्रिय॑: ॥
védā yó vīnā́m pádám antárikṣeṇa pátatām | védā nā́vaḥ samudríyaḥ ||
He knows the track of the birds that fly through the mid-world; he knows the ships upon the ocean—Varuṇa, the knower, who holds all movements in his vast order.
वेद॑ । यः । वी॒नाम् । प॒दम् । अ॒न्तरि॑क्षेण । पत॑ताम् । वेद॑ । ना॒वः । स॒मु॒द्रियः॑ ॥वेद । यः । वीनाम् । पदम् । अन्तरिक्षेण । पतताम् । वेद । नावः । समुद्रियः ॥veda | yaḥ | vīnām | padam | antarikṣeṇa | patatām | veda | nāvaḥ | samudriyaḥ