Sukta 1.25
परा हि मे विमन्यवः पतन्ति वस्यइष्टये । वयो न वसतीरुप ॥
परा॒ हि मे॒ विम॑न्यव॒: पत॑न्ति॒ वस्य॑इष्टये । वयो॒ न व॑स॒तीरुप॑ ॥
parā́ hí me vímanyavaḥ pátanti vásya iṣṭáye | váyo ná vasatī́r úpa ||
For indeed my divided angers fly away, seeking the better plenitude, like birds returning toward their resting-places; thus the being turns again to quietude under the law of Truth.
परा॑ । हि । मे॒ । विऽम॑न्यवः । पत॑न्ति । वस्यः॑ऽइष्टये । वयः॑ । न । व॒स॒तीः । उप॑ ॥परा । हि । मे । विमन्यवः । पतन्ति । वस्यःइष्टये । वयः । न । वसतीः । उप ॥parā | hi | me | vi-manyavaḥ | patanti | vasyaḥ-iṣṭaye | vayaḥ | na | vasatīḥ | upa