Sukta 1.25
वि मृळीकाय ते मनो रथीरश्वं न संदितम् । गीर्भिर्वरुण सीमहि ॥
वि मृ॑ळी॒काय॑ ते॒ मनो॑ र॒थीरश्वं॒ न संदि॑तम् । गी॒र्भिर्व॑रुण सीमहि ॥
ví mṛ́ḷīkāya te máno rathī́r áśvaṃ ná sáṃditam | gīrbhír varuṇa sīmahi ||
For thy graciousness, O Varuṇa, we yoke our mind—like a charioteer yokes the horse well-joined—by our inspired words, that it may move in the right order of thy Truth.
वि । मृ॒ळी॒काय॑ । ते॒ । मनः॑ । र॒थीः । अश्व॑म् । न । सम्ऽदि॑तम् । गी॒भिः । व॒रु॒ण॒ । सी॒म॒हि॒ ॥वि । मृळीकाय । ते । मनः । रथीः । अश्वम् । न । सम्दितम् । गीभिः । वरुण । सीमहि ॥vi | mṛḷīkāya | te | manaḥ | rathīḥ | aśvam | na | sam-ditam | gīrbhiḥ | varuṇa | sīmahi