Sukta 1.25
परा मे यन्ति धीतयो गावो न गव्यूतीरनु । इच्छन्तीरुरुचक्षसम् ॥
परा॑ मे यन्ति धी॒तयो॒ गावो॒ न गव्यू॑ती॒रनु॑ । इ॒च्छन्ती॑रुरु॒चक्ष॑सम् ॥
párā me yanti dhītáyo gā́vo ná gavyūtī́r ánu | icchántīr uru-cákṣasam ||
My thoughts-streams go forth like cows along their pastures, seeking the Wide-Seeing—moving towards that vast vision where the right order becomes clear and the mind finds its true track.
पराः॑ । मे॒ । य॒न्ति॒ । धी॒तयः । गावः॑ । न । गव्यू॑तीः । अनु॑ । इ॒च्छन्तीः॑ । उ॒रु॒ऽचक्ष॑सम् ॥पराः । मे । यन्ति । धीतयः । गावः । न । गव्यूतीः । अनु । इच्छन्तीः । उरुचक्षसम् ॥parāḥ | me | yanti | dhītayaḥ | gāvaḥ | na | gavyūtīḥ | anu | icchantīḥ | uru-cakṣasam