Sukta 1.24
अग्नेर्वयं प्रथमस्यामृतानां मनामहे चारु देवस्य नाम । स नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च ॥
अ॒ग्नेर्व॒यं प्र॑थ॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ । स नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥
agnér vayáṃ prathamásyā́mṛtānāṃ mánāmahe cā́ru devásya nā́ma | sá no mahyā́ áditaye púner dāt pitáraṃ ca dṛśéyaṃ mātáraṃ ca ||
We hold in mind the beautiful Name of Agni, first among the immortals. May he give us back to the vast Aditi, that I may behold the Father and behold the Mother.
अ॒ग्नेः । व॒यम् । प्रथ॒मस्य॑ । अ॒मृता॑नाम् । मना॑महे । चारु॑ । दे॒वस्य॑ । नाम॑ । सः । नः॑ । म॒ह्यै । अदि॑तये । पुनः॑ । दा॒त् । पि॒तर॑म् । च॒ । दृ॒शेय॑म् । मा॒तर॑म् । च॒ ॥अग्नेः । वयम् । प्रथमस्य । अमृतानाम् । मनामहे । चारु । देवस्य । नाम । सः । नः । मह्यै । अदितये । पुनः । दात् । पितरम् । च । दृशेयम् । मातरम् । च ॥agneḥ | vayam | prathamasya | amṛtānām | manāmahe | cāru | devasya | nāma | saḥ | naḥ | mahyai | aditaye | punaḥ | dāt | pitaram | ca | dṛśeyam | mātaram | ca