Sukta 1.24
कस्य नूनं कतमस्यामृतानां मनामहे चारु देवस्य नाम । को नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च ॥
कस्य॑ नू॒नं क॑त॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ । को नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥
kásya nūnáṃ katamá syā́mṛtānāṃ mánāmahe cā́ru devásya nā́ma | kó no mahyā́ áditaye púner dāt pitáraṃ ca dṛśéyaṃ mātáraṃ ca ||
Of whom, of which one among the immortals, shall we now hold in mind the beautiful Name? Who will give us again to the vast Aditi, so that I may behold the Father and behold the Mother?
कस्य॑ । नू॒नम् । क॒त॒मस्य॑ । अ॒मृता॑नाम् । मना॑महे । चारु॑ । दे॒वस्य॑ । नाम॑ । कः । नः॑ । म॒ह्यै । अदि॑तये । पुनः॑ । दा॒त् । पि॒तर॑म् । च॒ । दृ॒शेय॑म् । मा॒तर॑म् । च॒ ॥कस्य । नूनम् । कतमस्य । अमृतानाम् । मनामहे । चारु । देवस्य । नाम । कः । नः । मह्यै । अदितये । पुनः । दात् । पितरम् । च । दृशेयम् । मातरम् । च ॥kasya | nūnam | katamasya | amṛtānām | manāmahe | cāru | devasya | nāma | kaḥ | naḥ | mahyai | aditaye | punaḥ | dāt | pitaram | ca | dṛśeyam | mātaram | ca