Sukta 1.23
इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः । विश्वे मम श्रुता हवम् ॥
इन्द्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा॑स॒: पूष॑रातयः । विश्वे॒ मम॑ श्रुता॒ हव॑म् ॥
indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ | viśve mama śrutā havam ||
O gods—Marut hosts with Indra as the foremost, givers like Pūṣan—may you all hear my call, and turn your luminous aids toward my journey.
इन्द्र॑ऽज्येष्ठाः । मरु॑त्ऽगणाः । देवा॑सः । पूष॑ऽरातयः । विश्वे॑ । मम॑ । श्रु॒त॒ । हव॑म् ॥इन्द्रज्येष्ठाः । मरुत्गणाः । देवासः । पूषरातयः । विश्वे । मम । श्रुत । हवम् ॥indra-jyeṣṭhāḥ | marut-gaṇāḥ | devāsaḥ | pūṣa-rātayaḥ | viśve | mama | śruta | havam