Sukta 1.23
वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः । करतां नः सुराधसः ॥
वरु॑णः प्रावि॒ता भु॑वन्मि॒त्रो विश्वा॑भिरू॒तिभि॑: । कर॑तां नः सु॒राध॑सः ॥
varuṇaḥ prāvitā bhuvan mitro viśvābhir ūtibhiḥ | karatāṃ naḥ surādhasaḥ ||
May Varuṇa become our forward protector; may Mitra, with all his helps, act for us—those two of good giving—so that the being is richly set in rightness and happy fullness.
वरु॑णः । प्र॒ऽअ॒वि॒ता । भु॒व॒त् । मि॒त्रः । विश्वा॑भिः । ऊ॒तिऽभिः॑ । कर॑ताम् । नः॒ । सु॒ऽराध॑सः ॥वरुणः । प्रअविता । भुवत् । मित्रः । विश्वाभिः । ऊतिभिः । करताम् । नः । सुराधसः ॥varuṇaḥ | pra-avitā | bhuvat | mitraḥ | viśvābhiḥ | ūti-bhiḥ | karatām | naḥ | su-rādhasaḥ