Sukta 1.23
ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती । ता मित्रावरुणा हुवे ॥
ऋ॒तेन॒ यावृ॑ता॒वृधा॑वृ॒तस्य॒ ज्योति॑ष॒स्पती॑ । ता मि॒त्रावरु॑णा हुवे ॥
ṛtena yāv ṛtāvṛdhāv ṛtasya jyotiṣaspātī | tā mitrāvaruṇā huve ||
I call Mitra and Varuṇa—those two who grow by the Truth, who are strengthened by ṛta, the lords of the Light of ṛta—so that our being may be governed by the luminous law.
ऋ॒तेन॑ । यौ । ऋ॒त॒ऽवृधौ॑ । ऋ॒तस्य॑ । ज्योति॑षः । पती॒ इति॑ । ता । मि॒त्रावरु॑णा । हु॒वे॒ ॥ऋतेन । यौ । ऋतवृधौ । ऋतस्य । ज्योतिषः । पती इति । ता । मित्रावरुणा । हुवे ॥ṛtena | yau | ṛta-vṛdhau | ṛtasya | jyotiṣaḥ | patī iti | tā | mitrāvaruṇā | huve