Sukta 1.23
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा । अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः ॥
अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा । अ॒ग्निं च॑ वि॒श्वश॑म्भुव॒माप॑श्च वि॒श्वभे॑षजीः ॥
apsú me sómo abravīd antár víśvāni bheṣajā́ | agníṃ ca viśváśambhuvam ā́paś ca viśvábheṣajīḥ ||
In the waters Soma spoke to me: ‘Within are all healings.’ And Agni too is the universal well-being; and the Waters are the universal remedies—powers that make the whole being sound.
अ॒प्ऽसु । मे॒ । सोमः॑ । अ॒ब्र॒वी॒त् । अ॒न्तः । विश्वा॑नि । भे॒ष॒जा । अ॒ग्निम् । च॒ । वि॒श्वऽश॑म्भुवम् । आपः॑ । च॒ । वि॒श्वऽभे॑षजीः ॥अप्सु । मे । सोमः । अब्रवीत् । अन्तः । विश्वानि । भेषजा । अग्निम् । च । विश्वशम्भुवम् । आपः । च । विश्वभेषजीः ॥ap-su | me | somaḥ | abravīt | antaḥ | viśvāni | bheṣajā | agnim | ca | viśva-śambhuvam | āpaḥ | ca | viśva-bheṣajīḥ