Sukta 1.23
अप्स्वन्तरमृतमप्सु भेषजमपामुत प्रशस्तये । देवा भवत वाजिनः ॥
अ॒प्स्व१॒॑न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्तये । देवा॒ भव॑त वा॒जिन॑: ॥
apsv àntár amṛ́tam apsú bheṣajám apā́m utá práśastaye | devā́ bhavata vājínaḥ ||
Within the waters is immortality; within the waters is the healing power. O Waters, for our full affirmation and right praise—become for us divine energies of victorious force.
अ॒प्ऽसु । अ॒न्तः । अ॒मृत॑म् । अ॒प्ऽसु । भे॒ष॒जम् । अ॒पाम् । उ॒त । प्रऽश॑स्तये । देवाः॑ । भव॑त । वा॒जिनः॑ ॥अप्सु । अन्तः । अमृतम् । अप्सु । भेषजम् । अपाम् । उत । प्रशस्तये । देवाः । भवत । वाजिनः ॥ap-su | antaḥ | amṛtam | ap-su | bheṣajam | apām | uta | pra-śastaye | devāḥ | bhavata | vājinaḥ