Sukta 1.23
उभा देवा दिविस्पृशेन्द्रवायू हवामहे । अस्य सोमस्य पीतये ॥
उ॒भा दे॒वा दि॑वि॒स्पृशे॑न्द्रवा॒यू ह॑वामहे । अ॒स्य सोम॑स्य पी॒तये॑ ॥
ubhā devā divispṛśendravāyū havāmahe | asya somasya pītaye ||
We call the two gods, Indra and Vāyu, who touch the heaven—so that they may drink of this Soma: the delight that clarifies and uplifts the consciousness.
उ॒भा । दे॒वा । दि॒वि॒ऽस्पृशा॑ । इ॒न्द्र॒वा॒यू इति॑ । ह॒वा॒म॒हे॒ । अ॒स्य । सोम॑स्य । पी॒तये॑ ॥उभा । देवा । दिविस्पृशा । इन्द्रवायू इति । हवामहे । अस्य । सोमस्य । पीतये ॥ubhā | devā | divi-spṛśā | indravāyū iti | havāmahe | asya | somasya | pītaye