Sukta 1.23
तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे । वायो तान्प्रस्थितान्पिब ॥
ती॒व्राः सोमा॑स॒ आ ग॑ह्या॒शीर्व॑न्तः सु॒ता इ॒मे । वायो॒ तान्प्रस्थि॑तान्पिब ॥
tīvrāḥ somāsa ā gahy āśīr-vantaḥ sutā ime | vāyo tān pra-sthitān piba ||
Come, O Vāyu: these Soma draughts, keen and forceful, pressed and rich with the power of aspiration—drink them as they are set forth, and let the life-breath be filled with their luminous impetus.
ती॒व्राः । सोमा॑सः । आ । ग॒हि॒ । आ॒शीःऽव॑न्तः । सु॒ताः । इ॒मे । वायो॒ इति॑ । तान् । प्रऽस्थि॑तान् । पि॒ब॒ ॥तीव्राः । सोमासः । आ । गहि । आशीःवन्तः । सुताः । इमे । वायो इति । तान् । प्रस्थितान् । पिब ॥tīvrāḥ | somāsaḥ | ā | gahi | āśīḥ-vantaḥ | sutāḥ | ime | vāyo iti | tān | pra-sthitān | piba