Sukta 1.23
अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् । पृञ्चतीर्मधुना पयः ॥
अ॒म्बयो॑ य॒न्त्यध्व॑भिर्जा॒मयो॑ अध्वरीय॒ताम् । पृ॒ञ्च॒तीर्मधु॑ना॒ पय॑: ॥
ambáyo yánty ádhvabhir jāmáyo adhvarīyatā́m | pṛ́ñcatīr mádhunā páyaḥ ||
The Mother-waters move along the paths, the kindred powers of the sacrifice; they pour and mingle the milk of being with sweetness, preparing the offering within us.
अ॒म्बयः॑ । य॒न्ति॒ । अध्व॑ऽभिः । जा॒मयः॑ । अ॒ध्व॒रि॒ऽय॒ताम् । पृ॒ञ्च॒तीः । मधु॑ना । पयः॑ ॥अम्बयः । यन्ति । अध्वभिः । जामयः । अध्वरियताम् । पृञ्चतीः । मधुना । पयः ॥ambayaḥ | yanti | adhva-bhiḥ | jāmayaḥ | adhvari-yatām | pṛñcatīḥ | madhunā | payaḥ