Sukta 1.23
उतो स मह्यमिन्दुभिः षड्युक्ताँ अनुसेषिधत् । गोभिर्यवं न चर्कृषत् ॥
उ॒तो स मह्य॒मिन्दु॑भि॒: षड्यु॒क्ताँ अ॑नु॒सेषि॑धत् । गोभि॒र्यवं॒ न च॑र्कृषत् ॥
utó sá mahyám índubhiḥ ṣáḍ yuktā́m̐ anuséṣidhat | góbhir yávaṃ ná carkṛṣat ||
And he, for me, with the bright drops set in right order the six yoked powers; with the rays he made the abundance grow, as one makes barley increase.
उ॒तो इति॑ । सः । मह्य॑म् । इन्दु॑ऽभिः । षट् । यु॒क्तान् । अ॒नु॒ऽसेसि॑धत् । गोभिः॑ । यव॑म् । न । च॒र्कृ॒ष॒त् ॥उतो इति । सः । मह्यम् । इन्दुभिः । षट् । युक्तान् । अनुसेसिधत् । गोभिः । यवम् । न । चर्कृषत् ॥uto iti | saḥ | mahyam | indu-bhiḥ | ṣaṭ | yuktān | anu-sesidhat | gobhiḥ | yavam | na | carkṛṣat