Sukta 1.22
त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः । अतो धर्माणि धारयन् ॥
त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः । अतो॒ धर्मा॑णि धा॒रय॑न् ॥
trīṇi padā vi cakrame viṣṇur gopā adābhyaḥ | ato dharmāṇi dhārayan ||
Three steps Vishnu strode forth—an unfailing guardian; from that act he holds up the laws and right workings of the worlds within us.
त्रीणि॑ । प॒दा । वि । च॒क्र॒मे॒ । विष्णुः॑ । गो॒पाः । अदा॑भ्यः । अतः॑ । धर्मा॑णि । धा॒रय॑न् ॥त्रीणि । पदा । वि । चक्रमे । विष्णुः । गोपाः । अदाभ्यः । अतः । धर्माणि । धारयन् ॥trīṇi | padā | vi | cakrame | viṣṇuḥ | gopāḥ | adābhyaḥ | ataḥ | dharmāṇi | dhārayan