Sukta 1.22
इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् । समूळ्हमस्य पांसुरे ॥
इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् । समू॑ळ्हमस्य पांसु॒रे ॥
idaṃ viṣṇur vi cakrame tredhā ni dadhe padam | sam-ūḷham asya pāṃsure ||
This is Vishnu who has strode forth; in threefold fashion he has set down his step—one of his steps is hidden and packed in the dust, in the depths of the inconscient.
इ॒दम् । विष्णुः॑ । वि । च॒क्र॒मे॒ । त्रे॒धा । नि । द॒धे॒ । प॒दम् । सम्ऽऊ॑ळ्हम् । अ॒स्य॒ । पां॒सु॒रे ॥इदम् । विष्णुः । वि । चक्रमे । त्रेधा । नि । दधे । पदम् । सम्ऊळ्हम् । अस्य । पांसुरे ॥idam | viṣṇuḥ | vi | cakrame | tredhā | ni | dadhe | padam | sam-ūḷham | asya | pāṃsure