Sukta 1.191
उदपप्तदसौ सूर्यः पुरु विश्वानि जूर्वन् । आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ॥
उद॑पप्तद॒सौ सूर्य॑: पु॒रु विश्वा॑नि॒ जूर्व॑न् । आ॒दि॒त्यः पर्व॑तेभ्यो वि॒श्वदृ॑ष्टो अदृष्ट॒हा ॥
úd apaptad asáu sū́ryaḥ púru víśvāni jū́rvan | ādityáḥ párvatebhyo viśvá-dṛṣṭo adṛṣṭa-hā́ ||
Up leapt that Sun, wearing down many and all opposing movements. The Āditya rises beyond the mountains—universal in vision, the destroyer of what works unseen.
उत् । अ॒प॒प्त॒त् । अ॒सौ । सूर्यः॑ । पु॒रु । विश्वा॑नि । जूर्व॑न् । आ॒दि॒त्यः । पर्व॑तेभ्यः । वि॒श्वऽदृ॑ष्टः । अ॒दृ॒ष्ट॒ऽहा ॥उत् । अपप्तत् । असौ । सूर्यः । पुरु । विश्वानि । जूर्वन् । आदित्यः । पर्वतेभ्यः । विश्वदृष्टः । अदृष्टहा ॥ut | apaptat | asau | sūryaḥ | puru | viśvāni | jūrvan | ādityaḥ | parvatebhyaḥ | viśva-dṛṣṭaḥ | adṛṣṭa-hā