Sukta 1.191
सूर्ये विषमा सजामि दृतिं सुरावतो गृहे । सो चिन्नु न मराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥
सूर्ये॑ वि॒षमा स॑जामि॒ दृतिं॒ सुरा॑वतो गृ॒हे । सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥
sū́rye víṣam ā́ sajāmi dṛ́tiṃ surā́vato gṛhé | só cit nú ná marāti nó vayáṃ marāma āré asyá yójanam hariṣṭhā́ mádhu tvā madhulā́ cakāra ||
Into the Sun I cast this poison, into the skin-bag in the house of the wine. Even he does not die—nor do we die; far away be this union with it. O you established in the tawny (light), honey has made you honeyed—sweetness overcomes the bitterness.
सूर्ये॑ । वि॒षम् । आ । स॒जा॒मि॒ । दृति॑म् । सुरा॑ऽवतः । गृ॒हे । सः । चि॒त् । नु । न । म॒रा॒ति॒ । नो इति॑ । व॒यम् । म॒रा॒म॒ । आ॒रे । अ॒स्य॒ । योज॑नम् । ह॒रि॒ऽस्थाः । मधु॑ । त्वा॒ । म॒धु॒ला । च॒का॒र॒ ॥सूर्ये । विषम् । आ । सजामि । दृतिम् । सुरावतः । गृहे । सः । चित् । नु । न । मराति । नो इति । वयम् । मराम । आरे । अस्य । योजनम् । हरिस्थाः । मधु । त्वा । मधुला । चकार ॥sūrye | viṣam | ā | sajāmi | dṛtim | surāvataḥ | gṛhe | saḥ | cit | nu | na | marāt i | no iti | vayam | marāma | āre | asya | yojanam | hari-sthāḥ | madhu | tvā | madhulā | cakāra