Sukta 1.191
उत्पुरस्तात्सूर्य एति विश्वदृष्टो अदृष्टहा । अदृष्टान्त्सर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्यः ॥
उत्पु॒रस्ता॒त्सूर्य॑ एति वि॒श्वदृ॑ष्टो अदृष्ट॒हा । अ॒दृष्टा॒न्त्सर्वा॑ञ्ज॒म्भय॒न्त्सर्वा॑श्च यातुधा॒न्य॑: ॥
út purástāt sū́rya eti viśvá-dṛṣṭo adṛṣṭa-hā́ | adṛ́ṣṭān sárvān jambháyan sárvāś ca yātu-dhā́nyaḥ ||
From the front of things the Sun rises—universal in sight, a slayer of the unseen. Crushing all the hidden adversaries, he breaks also every yātu-dhāna power that distorts and devours the being.
उत् । पु॒रस्ता॑त् । सूर्यः॑ । ए॒ति॒ । वि॒श्वऽदृ॑ष्टः । अ॒दृ॒ष्ट॒ऽहा । अ॒दृष्टा॑न् । सर्वा॑न् । ज॒म्भय॑न् । सर्वाः॑ । च॒ । या॒तु॒ऽधा॒न्यः॑ ॥उत् । पुरस्तात् । सूर्यः । एति । विश्वदृष्टः । अदृष्टहा । अदृष्टान् । सर्वान् । जम्भयन् । सर्वाः । च । यातुधान्यः ॥ut | purastāt | sūryaḥ | eti | viśva-dṛṣṭaḥ | adṛṣṭa-hā | adṛṣṭan | savārn | jambhayan | sarvāḥ | ca | yātu-dhānyaḥ