Sukta 1.191
ये अंस्या ये अङ्ग्याः सूचीका ये प्रकङ्कताः । अदृष्टाः किं चनेह वः सर्वे साकं नि जस्यत ॥
ये अंस्या॒ ये अङ्ग्या॑: सू॒चीका॒ ये प्र॑कङ्क॒ताः । अदृ॑ष्टा॒: किं च॒नेह व॒: सर्वे॑ सा॒कं नि ज॑स्यत ॥
yé aṃsyā́ yé aṅgyā́ḥ sūcīkā́ yé prá-kaṅkatā́ḥ | adṛ́ṣṭāḥ kíṃ canéha vaḥ sárve sākáṃ ní jasyata ||
You that pierce and cling—whether you seize by the shoulder, the limbs, or like needles, whether you strike with hidden stings—O unseen ones, you have no place here. All of you together, be driven down and subdued.
ये । अंस्याः॑ । ये । अङ्ग्याः॑ । सू॒चीकाः॑ । ये । प्र॒ऽक॒ङ्क॒ताः । अदृ॑ष्टाः । किम् । च॒न । इ॒ह । वः॒ । सर्वे॑ । सा॒कम् । नि । ज॒स्य॒त॒ ॥ये । अंस्याः । ये । अङ्ग्याः । सूचीकाः । ये । प्रकङ्कताः । अदृष्टाः । किम् । चन । इह । वः । सर्वे । साकम् । नि । जस्यत ॥ye | aṃsyāḥ | ye | aṅgyāḥ | sūcīkāḥ | ye | pra-kaṅkatāḥ | adṛṣṭāḥ | kim | cana | iha | vaḥ | sarve | sākam | ni | jasyata