Sukta 1.191
द्यौर्वः पिता पृथिवी माता सोमो भ्रातादितिः स्वसा । अदृष्टा विश्वदृष्टास्तिष्ठतेलयता सु कम् ॥
द्यौर्व॑: पि॒ता पृ॑थि॒वी मा॒ता सोमो॒ भ्रातादि॑ति॒: स्वसा॑ । अदृ॑ष्टा॒ विश्व॑दृष्टा॒स्तिष्ठ॑ते॒लय॑ता॒ सु क॑म् ॥
dyáur vaḥ pitā́ pṛthivī́ mātā́ sómo bhrā́tā́ditiḥ svásā | adṛ́ṣṭā víśva-dṛṣṭās tíṣṭhata ílayatā sú kam ||
Heaven is your Father, Earth your Mother; Soma is your Brother, and Aditi your Sister. O unseen forces now brought under the universal gaze, stand still; be appeased—let there be a true ease and rightness here.
द्यौः । वः॒ । पि॒ता । पृ॒थि॒वी । मा॒ता । सोमः॑ । भ्राता॑ । अदि॑तिः । स्वसा॑ । अदृ॑ष्टाः । विश्व॑ऽदृश्टाः । तिष्ठ॑त । इ॒लय॑त । सु । क॒म् ॥द्यौः । वः । पिता । पृथिवी । माता । सोमः । भ्राता । अदितिः । स्वसा । अदृष्टाः । विश्वदृश्टाः । तिष्ठत । इलयत । सु । कम् ॥dyauḥ | vaḥ | pitā | pṛthivī | mātā | somaḥ | bhrātā | aditiḥ | svasā | adṛṣṭāḥ | viśva-dṛṣṭāḥ | tiṣṭhata | ilayata | su | kam