Sukta 1.191
एत उ त्ये प्रत्यदृश्रन्प्रदोषं तस्करा इव । अदृष्टा विश्वदृष्टाः प्रतिबुद्धा अभूतन ॥
ए॒त उ॒ त्ये प्रत्य॑दृश्रन्प्रदो॒षं तस्क॑रा इव । अदृ॑ष्टा॒ विश्व॑दृष्टा॒: प्रति॑बुद्धा अभूतन ॥
etá u tye práty adṛśran pradoṣáṃ táskarā iva | adṛ́ṣṭā víśva-dṛṣṭāḥ práti-buddhā abhūtana ||
These very forces, as though thieves at twilight, have been brought into view and confronted. The unseen are made seen; awakened to the universal sight, they are checked and exposed.
ए॒ते । ऊँ॒ इति॑ । त्ये । प्रति॑ । अ॒दृ॒श्र॒न् । प्र॒ऽदो॒षम् । तस्क॑राःऽइव । अदृ॑ष्टाः । विश्व॑ऽदृश्टाः । प्रति॑ऽबुद्धाः । अ॒भू॒त॒न॒ ॥एते । ऊँ इति । त्ये । प्रति । अदृश्रन् । प्रदोषम् । तस्कराःइव । अदृष्टाः । विश्वदृश्टाः । प्रतिबुद्धाः । अभूतन ॥ete | oṃ iti | tye | prati | adṛśran | pra-doṣam | taskarāḥ-iva | adṛṣṭāḥ | viśva-dṛśṭāḥ | prati-buddhāḥ | abhūtana