Sukta 1.191
शरासः कुशरासो दर्भासः सैर्या उत । मौञ्जा अदृष्टा वैरिणाः सर्वे साकं न्यलिप्सत ॥
श॒रास॒: कुश॑रासो द॒र्भास॑: सै॒र्या उ॒त । मौ॒ञ्जा अ॒दृष्टा॑ वैरि॒णाः सर्वे॑ सा॒कं न्य॑लिप्सत ॥
śarā́saḥ kúśarāso darbhā́saḥ sairyā́ utá | mauñjā́ adṛ́ṣṭā vairiṇáḥ sárve sākáṃ ny alipsata ||
The reed-ones, the kuśa-ones, the darbha-ones, and the sairyā too; the muñja-ones—unseen adversaries—all together have fastened themselves down. May this net of clinging be uncovered and undone.
श॒रासः॑ । कुश॑रासः । द॒र्भासः॑ । सै॒र्याः । उ॒त । मौ॒ञ्जाः । अ॒दृष्टाः॑ । वै॒रि॒णाः । सर्वे॑ । सा॒कम् । नि । अ॒लि॒प्स॒त॒ ॥शरासः । कुशरासः । दर्भासः । सैर्याः । उत । मौञ्जाः । अदृष्टाः । वैरिणाः । सर्वे । साकम् । नि । अलिप्सत ॥śarāsaḥ | kuśarāsaḥ | darbhāsaḥ | sairyāḥ | uta | mauñjāḥ | adṛṣṭāḥ | vairiṇāḥ | sarve | sākam | ni | alipsata