Sukta 1.191
इयत्तकः कुषुम्भकस्तकं भिनद्म्यश्मना । ततो विषं प्र वावृते पराचीरनु संवतः ॥
इ॒य॒त्त॒कः कु॑षुम्भ॒कस्त॒कं भि॑न॒द्म्यश्म॑ना । ततो॑ वि॒षं प्र वा॑वृते॒ परा॑ची॒रनु॑ सं॒वत॑: ॥
iyattakáḥ kuṣumbhakás tákaṃ bhinadmy áśmanā | táto víṣaṃ prá vāvṛte parācī́r ánu saṃvatáḥ ||
I, Iyattaka, with Kuṣumbhaka, strike and break the source of the poison with the stone; from that breaking the venom turns outward and rolls away, retreating along the lapsing courses of time.
इ॒य॒त्त॒कः । कु॒षु॒म्भ॒कः । त॒कम् । भि॒न॒द्मि॒ । अश्म॑ना । ततः॑ । वि॒षम् । प्र । व॒वृ॒ते॒ । परा॑चीः । अनु॑ । स॒म्ऽवतः॑ ॥इयत्तकः । कुषुम्भकः । तकम् । भिनद्मि । अश्मना । ततः । विषम् । प्र । ववृते । पराचीः । अनु । सम्वतः ॥iyattakaḥ | kuṣumbhakaḥ | takam | bhinadmi | aśmanā | tataḥ | viṣam | pra | vavṛte | parācīḥ | anu | sam-vataḥ