Sukta 1.191
त्रिः सप्त मयूर्यः सप्त स्वसारो अग्रुवः । तास्ते विषं वि जभ्रिर उदकं कुम्भिनीरिव ॥
त्रिः स॒प्त म॑यू॒र्य॑: स॒प्त स्वसा॑रो अ॒ग्रुव॑: । तास्ते॑ वि॒षं वि ज॑भ्रिर उद॒कं कु॒म्भिनी॑रिव ॥
tríḥ saptá mayū́ryaḥ saptá svásāro agrúvaḥ | tā́s te víṣaṃ ví jabhrire udakáṃ kumbhinī́r iva ||
Thrice seven luminous powers, seven sister-forces moving in front, have carried away your poison and cast it out—like women with water-jars who lift and remove the water: so they draw out the venom from the being.
त्रिः । स॒प्त । म॒यू॒र्यः॑ । स॒प्त । स्वसा॑रः । अ॒ग्रुवः॑ । ताः । ते॒ । वि॒षम् । वि । ज॒भ्रि॒रे॒ । उ॒द॒कम् । कु॒म्भिनीः॑ऽइव ॥त्रिः । सप्त । मयूर्यः । सप्त । स्वसारः । अग्रुवः । ताः । ते । विषम् । वि । जभ्रिरे । उदकम् । कुम्भिनीःइव ॥triḥ | sapta | mayūryaḥ | sapta | svasāraḥ | agruvaḥ | tāḥ | te | viṣam | vi | jabhrire | udakam | kumbhinīḥ-iva