Sukta 1.191
कुषुम्भकस्तदब्रवीद्गिरेः प्रवर्तमानकः । वृश्चिकस्यारसं विषमरसं वृश्चिक ते विषम् ॥
कु॒षु॒म्भ॒कस्तद॑ब्रवीद्गि॒रेः प्र॑वर्तमान॒कः । वृश्चि॑कस्यार॒सं वि॒षम॑र॒सं वृ॑श्चिक ते वि॒षम् ॥
kuṣumbhakás tád abravīd giréḥ prá-vartamānakáḥ | vṛścíkasyārásaṃ víṣam árásaṃ vṛścika te víṣam ||
Kuṣumbhaka spoke this word as he moved forth from the mountain: ‘The scorpion’s poison is without essence, without savour; scorpion, your venom is made tasteless, powerless.’
कु॒षु॒म्भ॒कः । तत् । अ॒ब्र॒वी॒त् । गि॒रेः । प्र॒ऽव॒र्त॒मा॒न॒कः । वृश्चि॑कस्य । अ॒र॒सम् । वि॒षम् । अ॒र॒सम् । वृ॒श्चि॒क॒ । ते॒ । वि॒षम् ॥कुषुम्भकः । तत् । अब्रवीत् । गिरेः । प्रवर्तमानकः । वृश्चिकस्य । अरसम् । विषम् । अरसम् । वृश्चिक । ते । विषम् ॥kuṣumbhakaḥ | tat | abravīt | gireḥ | pra-vartamānakaḥ | vṛścikasya | arasam | viṣam | arasam | vṛścika | te | viṣam