Sukta 1.191
नवानां नवतीनां विषस्य रोपुषीणाम् । सर्वासामग्रभं नामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥
न॒वा॒नां न॑वती॒नां वि॒षस्य॒ रोपु॑षीणाम् । सर्वा॑सामग्रभं॒ नामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥
navānā́ṃ navatīnā́ṃ viṣásya ropúṣīṇām | sárvāsām agrabhaṃ nā́māré asyá yójanam hariṣṭhā́ mádhu tvā madhulā́ cakāra ||
Of the nine-and-ninety kinds of poison and their proliferations, I have seized the name of them all. Far away be our joining with it. Established in the golden light, sweetness makes you sweet: the delight-force masters every form of toxicity by knowing it.
न॒वा॒नाम् । न॒व॒ती॒नाम् । वि॒षस्य॑ । रोपु॑षीणाम् । सर्वा॑साम् । अ॒ग्र॒भ॒म् । नाम॑ । आ॒रे । अ॒स्य॒ । योज॑नम् । ह॒रि॒ऽस्थाः । मधु॑ । त्वा॒ । म॒धु॒ला । च॒का॒र॒ ॥नवानाम् । नवतीनाम् । विषस्य । रोपुषीणाम् । सर्वासाम् । अग्रभम् । नाम । आरे । अस्य । योजनम् । हरिस्थाः । मधु । त्वा । मधुला । चकार ॥navānām | navatīnām | viṣasya | ropuṣīṇām | sarvāsām | agrabham | nāma | āre | asya | yojanam | hari-sthāḥ | madhu | tvā | madhulā | cakāra