Sukta 1.191
त्रिः सप्त विष्पुलिङ्गका विषस्य पुष्यमक्षन् । ताश्चिन्नु न मरन्ति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥
त्रिः स॒प्त वि॑ष्पुलिङ्ग॒का वि॒षस्य॒ पुष्य॑मक्षन् । ताश्चि॒न्नु न म॑रन्ति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥
tríḥ sapta viṣpuliṅgakā́ viṣásya púṣyam akṣan | tā́ś cit nú ná maranti nó vayáṃ marāma āré asyá yójanam hariṣṭhā́ mádhu tvā madhulā́ cakāra ||
Three times seven viṣpuliṅgakā have tasted the growth of poison; yet even they do not die—nor do we die; far away be our joining with it. Established in the golden light, sweetness makes you sweet: the delight-force annuls the venom’s decree.
त्रिः । स॒प्त । वि॒ष्पु॒लि॒ङ्ग॒काः । वि॒षस्य॑ । पुष्य॑म् । अ॒क्ष॒न् । ताः । चि॒त् । नु । न । म॒र॒न्ति॒ । नो इति॑ । व॒यम् । म॒रा॒म॒ । आ॒रे । अ॒स्य॒ । योज॑नम् । ह॒रि॒ऽस्थाः । मधु॑ । त्वा॒ । म॒धु॒ला । च॒का॒र॒ ॥त्रिः । सप्त । विष्पुलिङ्गकाः । विषस्य । पुष्यम् । अक्षन् । ताः । चित् । नु । न । मरन्ति । नो इति । वयम् । मराम । आरे । अस्य । योजनम् । हरिस्थाः । मधु । त्वा । मधुला । चकार ॥triḥ | sapta | viṣpuliṅgakāḥ | viṣasya | puṣyam | akṣan | tāḥ | cit | nu | na | maranti | no iti | vayam | marāma | āre | asya | yojanam | hari-sthāḥ | madhu | tvā | madhulā | cakāra