Sukta 1.187
यददो पितो अजगन्विवस्व पर्वतानाम् । अत्रा चिन्नो मधो पितोऽरं भक्षाय गम्याः ॥
यद॒दो पि॑तो॒ अज॑गन्वि॒वस्व॒ पर्व॑तानाम् । अत्रा॑ चिन्नो मधो पि॒तोऽरं॑ भ॒क्षाय॑ गम्याः ॥
yád adó pito ájagan vivásva párvatānām | átrā cin no madho pito áraṁ bhakṣā́ya gamyāḥ ||
When there, O Drink, you went forth—shining—through the mountains, then even here, O Honeyed Drink, you are to be reached for our enjoyment and assimilation.
यत् । अ॒दः । पि॒तो॒ इति॑ । अज॑गन् । वि॒वस्व॑ । पर्व॑तानाम् । अत्र॑ । चि॒त् । नः॒ । म॒धो॒ इति॑ । पि॒तो॒ इति॑ । अर॑म् । भ॒क्षाय॑ । ग॒म्याः॒ ॥यत् । अदः । पितो इति । अजगन् । विवस्व । पर्वतानाम् । अत्र । चित् । नः । मधो इति । पितो इति । अरम् । भक्षाय । गम्याः ॥yat | adaḥ | pito iti | ajagan | vivasva | parvatānām | atra | cit | naḥ | madho iti | pito iti | aram | bhakṣāya | gamyāḥ