Sukta 1.187
त्वे पितो महानां देवानां मनो हितम् । अकारि चारु केतुना तवाहिमवसावधीत् ॥
त्वे पि॑तो म॒हानां॑ दे॒वानां॒ मनो॑ हि॒तम् । अका॑रि॒ चारु॑ के॒तुना॒ तवाहि॒मव॑सावधीत् ॥
tvé pito mahā́nāṁ devā́nāṁ máno hitám | ákāri cā́ru ketúnā tavā́him ávasāvadhīt ||
In you, O Drink, the mind of the great gods is set in its right place. With a beautiful light-sign it is made manifest; by your help the serpent of obstruction is struck down.
त्वे । पि॒तो॒ इति॑ । म॒हाना॑म् । दे॒वाना॑म् । मनः॑ । हि॒तम् । अका॑रि । चारु॑ । के॒तुना॑ । तव॑ । अहि॑म् । अव॑सा । अ॒व॒धी॒त् ॥त्वे । पितो इति । महानाम् । देवानाम् । मनः । हितम् । अकारि । चारु । केतुना । तव । अहिम् । अवसा । अवधीत् ॥tve | pito iti | mahānām | devānām | manaḥ | hitam | akāri | cāru | ketunā | tava | ahim | avasā | avadhīt