Sukta 1.187
तव त्ये पितो ददतस्तव स्वादिष्ठ ते पितो । प्र स्वाद्मानो रसानां तुविग्रीवा इवेरते ॥
तव॒ त्ये पि॑तो॒ दद॑त॒स्तव॑ स्वादिष्ठ॒ ते पि॑तो । प्र स्वा॒द्मानो॒ रसा॑नां तुवि॒ग्रीवा॑ इवेरते ॥
tavá tyé pito dádataḥ tavá svādiṣṭha té pito | prá svā́dmāno rásānāṁ tuvigrīvā́ iverate ||
Yours, O Drink, are those givers; yours, O most sweet, O Drink. The sweetnesses of the essences surge forward, like strong-necked ones, pressing on with force.
तव॑ । त्ये । पि॒तो॒ इति॑ । दद॑तः । तव॑ । स्वा॒दि॒ष्ठ॒ । ते । पि॒तो॒ इति॑ । प्र । स्वा॒द्मानः॑ । रसा॑नाम् । तु॒वि॒ग्रीवाः॑ऽइव । ई॒र॒ते॒ ॥तव । त्ये । पितो इति । ददतः । तव । स्वादिष्ठ । ते । पितो इति । प्र । स्वाद्मानः । रसानाम् । तुविग्रीवाःइव । ईरते ॥tava | tye | pito iti | dadataḥ | tava | svādiṣṭha | te | pito iti | pra | svādmānaḥ | rasānām | tuvigrīvāḥ-iva | īrate