Sukta 1.187
तव त्ये पितो रसा रजांस्यनु विष्ठिताः । दिवि वाता इव श्रिताः ॥
तव॒ त्ये पि॑तो॒ रसा॒ रजां॒स्यनु॒ विष्ठि॑ताः । दि॒वि वाता॑ इव श्रि॒ताः ॥
tavá tyé pito rásā rájāṁsy ánu víṣṭhitāḥ | diví vātā́ iva śritā́ḥ ||
Yours, O Drink, are those sap-like essences spread out through the regions; established in heaven, like winds, they pervade and uphold.
तव॑ । त्ये । पि॒तो॒ इति॑ । रसाः॑ । रजां॑सि । अनु॑ । विऽस्थि॑ताः । दि॒वि । वाताः॑ऽइव । शृइ॒ताः ॥तव । त्ये । पितो इति । रसाः । रजांसि । अनु । विस्थिताः । दिवि । वाताःइव । शृइताः ॥tava | tye | pito iti | rasāḥ | rajāṃsi | anu | vi-sthitāḥ | divi | vātāḥ-iva | śṛitāḥ