Sukta 1.187
उप नः पितवा चर शिवः शिवाभिरूतिभिः । मयोभुरद्विषेण्यः सखा सुशेवो अद्वयाः ॥
उप॑ नः पित॒वा च॑र शि॒वः शि॒वाभि॑रू॒तिभि॑: । म॒यो॒भुर॑द्विषे॒ण्यः सखा॑ सु॒शेवो॒ अद्व॑याः ॥
úpa naḥ pitavā́ cara śiváḥ śivā́bhir ūtíbhiḥ | mayobhúr adviṣeṇyáḥ sákhā suśévo ádvayāḥ ||
Come near us, O Drink, moving with auspiciousness and with auspicious helps. A bringer of bliss, beyond hatred, a comrade of the journey—kindly, without duplicity—draw close.
उप॑ । नः॒ । पि॒तो॒ इति॑ । आ । च॒र॒ । शि॒वः । शि॒वाभिः॑ । ऊ॒तिऽभिः॑ । म॒यः॒ऽभुः । अ॒द्वि॒षे॒ण्यः । सखा॑ । सु॒ऽशेवः॑ । अद्व॑याः ॥उप । नः । पितो इति । आ । चर । शिवः । शिवाभिः । ऊतिभिः । मयःभुः । अद्विषेण्यः । सखा । सुशेवः । अद्वयाः ॥upa | naḥ | pito iti | ā | cara | śivaḥ | śivābhiḥ | ūti-bhiḥ | mayaḥ-bhuḥ | adviṣeṇyaḥ | sakhā | su-śevaḥ | advayāḥ