Sukta 1.185
उभा शंसा नर्या मामविष्टामुभे मामूती अवसा सचेताम् । भूरि चिदर्यः सुदास्तरायेषा मदन्त इषयेम देवाः ॥
उ॒भा शंसा॒ नर्या॒ माम॑विष्टामु॒भे मामू॒ती अव॑सा सचेताम् । भूरि॑ चिद॒र्यः सु॒दास्त॑राये॒षा मद॑न्त इषयेम देवाः ॥
ubhā́ śaṃsā naryā́ mām aviṣṭām ubhé mām ūtī́ avásā sacetām | bhū́ri cid aryáḥ sudā́starāyeṣā́ madanta iṣayema devāḥ ||
May both praises, human and heroic, guard me; may both your helps, with fostering force, be conscious of me. Even abundant gifts for the noble giver—may we, rejoicing in the inner plenitude, impel the gods to their action within us.
उ॒भा । शंसा॑ । नर्या॑ । माम् । अ॒वि॒ष्टा॒म् । उ॒भे इति॑ । माम् । ऊ॒ती इति॑ । अव॑सा । स॒चे॒ता॒म् । भूरि॑ । चि॒त् । अ॒र्यः । सु॒दाःऽत॑राय । इ॒षा । मद॑न्तः । इ॒ष॒ये॒म॒ । दे॒वाः॒ ॥उभा । शंसा । नर्या । माम् । अविष्टाम् । उभे इति । माम् । ऊती इति । अवसा । सचेताम् । भूरि । चित् । अर्यः । सुदाःतराय । इषा । मदन्तः । इषयेम । देवाः ॥ubhā | śaṃsā | naryā | mām | aviṣṭām | ubhe iti | mām | ūtī iti | avasā | sacetām | bhūri | cit | aryaḥ | sudāḥ-tarāya | iṣā | madantaḥ | iṣayema | devāḥ