Sukta 1.185
ऋतं दिवे तदवोचं पृथिव्या अभिश्रावाय प्रथमं सुमेधाः । पातामवद्याद्दुरितादभीके पिता माता च रक्षतामवोभिः ॥
ऋ॒तं दि॒वे तद॑वोचं पृथि॒व्या अ॑भिश्रा॒वाय॑ प्रथ॒मं सु॑मे॒धाः । पा॒ताम॑व॒द्याद्दु॑रि॒ताद॒भीके॑ पि॒ता मा॒ता च॑ रक्षता॒मवो॑भिः ॥
ṛtáṃ divé tád avocaṃ pṛthivyā́ abhiśrāvā́ya prathamáṃ sumedhā́ḥ | pātā́m avadyā́d duritā́d abhī́ke pitā́ mātā́ ca rakṣatām ávobhiḥ ||
The Truth-order to Heaven, that I have spoken; to Earth for the first hearing, O clear-minded ones. May the Father and Mother guard us with their fostering powers, near at hand, from blame and from the difficult passage of wrong and suffering.
ऋ॒तम् । दि॒वे । तत् । अ॒वो॒च॒म् । पृ॒थि॒व्यै । अ॒भि॒ऽश्रा॒वाय॑ । प्र॒थ॒मम् । सु॒ऽमे॒धाः । पा॒ताम् । अ॒व॒द्यात् । दुः॒ऽइ॒तात् । अ॒भीके॑ । पि॒ता । मा॒ता । च॒ । र॒क्ष॒ता॒म् । अवः॑ऽभिः ॥ऋतम् । दिवे । तत् । अवोचम् । पृथिव्यै । अभिश्रावाय । प्रथमम् । सुमेधाः । पाताम् । अवद्यात् । दुःइतात् । अभीके । पिता । माता । च । रक्षताम् । अवःभिः ॥ṛtam | dive | tat | avocam | pṛthivyai | abhi-śrāvāya | prathamam | su-medhāḥ | pātām | avadyāt | duḥ-itāt | abhīke | pitā | mātā | ca | rakṣatām | avaḥ-bhiḥ