Sukta 1.185
देवान्वा यच्चकृमा कच्चिदागः सखायं वा सदमिज्जास्पतिं वा । इयं धीर्भूया अवयानमेषां द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
दे॒वान्वा॒ यच्च॑कृ॒मा कच्चि॒दाग॒: सखा॑यं वा॒ सद॒मिज्जास्प॑तिं वा । इ॒यं धीर्भू॑या अव॒यान॑मेषां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
devā́n vā yác cakṛmá kác cid ā́gaḥ sakhā́yaṃ vā sádám íj jās-pátiṃ vā | iyáṃ dhī́r bhūyā avayā́nam eṣā́ṃ dyā́vā rakṣataṃ pṛthivī no ábhvāt ||
If we have committed any fault against the gods, or against a friend, or against the lord of the clan, may this our thought become their way of appeasement and release. Protect us, Heaven and Earth, from the vast adverse.
दे॒वान् । वा॒ । यत् । च॒कृ॒म । कत् । चि॒त् । आगः॑ । सखा॑यम् । वा॒ । सद॑म् । इत् । जाःऽप॑तिम् । वा॒ । इ॒यम् । धीः । भू॒याः॒ । अ॒व॒ऽयान॑म् । एषा॑म् । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥देवान् । वा । यत् । चकृम । कत् । चित् । आगः । सखायम् । वा । सदम् । इत् । जाःपतिम् । वा । इयम् । धीः । भूयाः । अवयानम् । एषाम् । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥devān | vā | yat | cakṛma | kat | cit | āgaḥ | sakhāyam | vā | sadam | it | jāḥ-patim | vā | iyam | dhīḥ | bhūyāḥ | ava-yānam | eṣām | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt