Sukta 1.185
उर्वी पृथ्वी बहुले दूरेअन्ते उप ब्रुवे नमसा यज्ञे अस्मिन् । दधाते ये सुभगे सुप्रतूर्ती द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
उ॒र्वी पृ॒थ्वी ब॑हु॒ले दू॒रेअ॑न्ते॒ उप॑ ब्रुवे॒ नम॑सा य॒ज्ञे अ॒स्मिन् । द॒धाते॒ ये सु॒भगे॑ सु॒प्रतू॑र्ती॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
urvī pṛthvī bahulé dūrēántē úpa bruve námasā yajñé asmín | dadhā́te ye subhágē suprátūrtī dyā́vā rakṣataṃ pṛthivī no ábhvāt ||
Wide and firm, abundant and far-reaching, I address you with reverence in this inner sacrifice. You who establish the good fortune and the beautiful passage—protect us, Heaven and Earth, from the vast adverse.
उ॒र्वी इति॑ । पृ॒थ्वी इति॑ । ब॒हु॒ले इति॑ । दू॒रेअ॑न्ते॒ इति॑ दू॒रेऽअ॑न्ते । उप॑ । ब्रु॒वे॒ । नम॑सा । य॒ज्ञे । अ॒स्मिन् । द॒धाते॒ इति॑ । ये इति॑ । सु॒भगे॒ इति॑ सु॒ऽभगे॑ । सु॒प्रतू॑र्ती॒ इति॑ सु॒ऽप्रतू॑र्ती । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त्॥उर्वी इति । पृथ्वी इति । बहुले इति । दूरेअन्ते इति दूरेअन्ते । उप । ब्रुवे । नमसा । यज्ञे । अस्मिन् । दधाते इति । ये इति । सुभगे इति सुभगे । सुप्रतूर्ती इति सुप्रतूर्ती । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात्॥urvī iti | pṛthvī iti | bahuleiti | dūreanteitidūre--ante | upa | bruve | namasā | yajñe | asmin | dadhāteiti | ye iti | subhageitisu-bhage | supratūrtī itisu-pratūrtī | dyāvā | rakṣatam | pṛthivī it | niḥ | abhvāt