Sukta 1.185
उर्वी सद्मनी बृहती ऋतेन हुवे देवानामवसा जनित्री । दधाते ये अमृतं सुप्रतीके द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
उ॒र्वी सद्म॑नी बृह॒ती ऋ॒तेन॑ हु॒वे दे॒वाना॒मव॑सा॒ जनि॑त्री । द॒धाते॒ ये अ॒मृतं॑ सु॒प्रती॑के॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
urvī sádmanī bṛhatī ṛténa huvé devā́nām avásā jánitrī | dadhā́te ye amṛ́taṃ suprátīke dyā́vā rakṣataṃ pṛthivī no ábhvāt ||
Wide in your seats and vast in your greatness, O Mother of birth, by the Truth-order I call you with the gods’ fostering power. You who uphold the deathless in forms of beautiful radiance—protect us, Heaven and Earth, from the overwhelming adverse.
उ॒र्वी इति॑ । सद्म॑नी॒ इति॑ । बृ॒ह॒ती इति॑ । ऋ॒तेन॑ । हु॒वे । दे॒वाना॑म् । अव॑सा । जनि॑त्री॒ इति॑ । द॒धाते॑ । ये । अ॒मृत॑म् । सु॒प्रती॑के॒ इति॑ सु॒ऽप्रती॑के । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥उर्वी इति । सद्मनी इति । बृहती इति । ऋतेन । हुवे । देवानाम् । अवसा । जनित्री इति । दधाते । ये । अमृतम् । सुप्रतीके इति सुप्रतीके । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥urvī iti | sadmanī iti | bṛhatī iti | ṛtena | huve | devānām | avasā | janitrī iti | dadhāte | ye | amṛtam | supratīke itisu-pratīke | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt