Sukta 1.185
संगच्छमाने युवती समन्ते स्वसारा जामी पित्रोरुपस्थे । अभिजिघ्रन्ती भुवनस्य नाभिं द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
सं॒गच्छ॑माने युव॒ती सम॑न्ते॒ स्वसा॑रा जा॒मी पि॒त्रोरु॒पस्थे॑ । अ॒भि॒जिघ्र॑न्ती॒ भुव॑नस्य॒ नाभिं॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
saṅgácchamāne yuvatī sámante svásārā jāmī pitrór upásthe | abhijíghrantī bhúvanasya nā́bhiṃ dyā́vā rakṣataṃ pṛthivī no ábhvāt ||
O Heaven and Earth, young sisters moving together in one accord, kin within the Father’s lap, breathing toward the navel of the world—guard us from the vast hostile Power that would break the harmony of our becoming.
स॒ङ्गच्छ॑माने॒ इति॑ स॒म्ऽगच्छ॑माने । यु॒व॒ती इति॑ । सम॑न्ते॒ इति॒ सम्ऽअ॑न्ते । स्वसा॑रा । जा॒मी इति॑ । पि॒त्रोः । उ॒पऽस्थे॑ । अ॒भि॒जिघ्र॑न्ती॒ इत्य॑भि॒ऽजिघ्र॑न्ती । भुव॑नस्य । नाभि॑म् । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥सङ्गच्छमाने इति सम्गच्छमाने । युवती इति । समन्ते इति सम्अन्ते । स्वसारा । जामी इति । पित्रोः । उपस्थे । अभिजिघ्रन्ती इत्यभिजिघ्रन्ती । भुवनस्य । नाभिम् । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥saṅgacchamāneitisam-gacchamāne | yuvatī | iti | samanteitisam-ante | svasārā | jāmī iti | pitroḥ | upa-sthe | abhijighrantī ity abhi-jighrantī | bhuvanasya | nābhim | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt