Sukta 1.185
अतप्यमाने अवसावन्ती अनु ष्याम रोदसी देवपुत्रे । उभे देवानामुभयेभिरह्नां द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
अत॑प्यमाने॒ अव॒साव॑न्ती॒ अनु॑ ष्याम॒ रोद॑सी दे॒वपु॑त्रे । उ॒भे दे॒वाना॑मु॒भये॑भि॒रह्नां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
átapyamāne avásāvantī ánu ṣyāma ródasī deváputre | ubhé devā́nām ubháyebhir áhnāṃ dyā́vā rakṣataṃ pṛthivī no ábhvāt ||
O Heaven and Earth, divine daughters, glowing with inner ardour and rich in your fostering power, may we move in your following. You who belong to the gods and embrace both kinds of days, protect us—O Dyāvā and Pṛthivī—from the vast and hostile Inconscience.
अत॑प्यमाने॒ इति॑ । अव॑सा । अव॑न्ती॒ इति॑ । अनु॑ । स्या॒म॒ । रोद॑सी॒ इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । उ॒भे इति॑ । दे॒वाना॑म् । उ॒भये॑भिः । अह्ना॑म् । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥अतप्यमाने इति । अवसा । अवन्ती इति । अनु । स्याम । रोदसी इति । देवपुत्रे इति देवपुत्रे । उभे इति । देवानाम् । उभयेभिः । अह्नाम् । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥atapyamāne | avasā | avantī | iti | anu | syāma | rodasī iti | devaputreitideva-putre | ubhe iti | devānām | ubhayebhiḥ | ahnām | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt