Sukta 1.185
अनेहो दात्रमदितेरनर्वं हुवे स्वर्वदवधं नमस्वत् । तद्रोदसी जनयतं जरित्रे द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
अ॒ने॒हो दा॒त्रमदि॑तेरन॒र्वं हु॒वे स्व॑र्वदव॒धं नम॑स्वत् । तद्रो॑दसी जनयतं जरि॒त्रे द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
aného dā́tram áditer anárvaṃ huvé svàr-vad avadháṃ námasvat | tád rodasī́ janayataṃ jaritré dyā́vā rakṣataṃ pṛthivī no abhvā́t ||
I call the unhurried, unbroken gift of Aditi—luminous, unassailable, full of reverence. That, O Heaven and Earth, bring forth for the singer; O Heaven and Earth, protect us from the overwhelming vastness.
अ॒ने॒हः । दा॒त्रम् । अदि॑तेः । अ॒न॒र्वम् । हु॒वे । स्वः॑ऽवत् । अ॒व॒धम् । नम॑स्वत् । तत् । रो॒द॒सी॒ इति॑ । ज॒न॒य॒त॒म् । ज॒रि॒त्रे । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥अनेहः । दात्रम् । अदितेः । अनर्वम् । हुवे । स्वःवत् । अवधम् । नमस्वत् । तत् । रोदसी इति । जनयतम् । जरित्रे । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥anehaḥ | dātram | aditeḥ | anarvam | huve | svaḥ-vat | avadham | namasvat | tat | rodasī iti | janayatam | jaritre | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt